रविवार, 21 सितंबर 2014

शान्ति पाठ एवं मंगल श्लोक

शान्ति पाठ एवं मंगल श्लोक

साधक हाथ में पुष्प और चावल ले हाथ जोड़कर निम्न श्लोक पढ़े और सब देवों को नमस्कार करें ।
सुमुखश्चैकदन्तश्च कपिलो गजकर्णदः । लम्बोदरश्च विकटो विघ्ननाशो विनायकः ॥१॥
धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः । द्वादशेतानि नामानि यः पठेच्छृणुयादपि ॥२॥
विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा । संग्रामे सङ्कटे चैव विघ्नस्तस्य न जायते ॥३॥
शुक्लाम्बरधरं देवं शशिवर्ण चतुर्भुजम् । प्रसन्न वदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥४॥
अभीप्सितार्थसिद्धयर्थ पूजितो यः सुराऽसुरैः । सर्वविघ्नहरस्तस्मै गणाधिपतये नमः ॥५॥
सर्वमङ्गलमंगल्ये शिवे सर्वार्थसाधिकेः । शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तुते ॥६॥
सर्वदा सर्वकार्येषं नास्ति तेषाममंगलम् । येषां हदिस्थो भगवान् मंगलायतनो हरिः ॥७॥
तदेव लग्नं सुदिनं तदेव, ताराबलं चन्द्रबलं तदेव । विद्याबलं दैवबलं तदेव, लक्ष्मीपते ! तेऽङघ्रियुगं स्मरामि ॥८॥
लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः । येषामिन्दीवरश्यामो हदयस्थो, जनार्दनः ॥९॥
सर्वष्वारम्भकार्येषु त्रयस्त्रिभुवनेश्वराः । देवा दिशन्तु नं सिद्धिं ब्रह्मेशान जनार्दनाः ॥१०॥

श्री मन्महागणधिपतये नमः ॥ लक्ष्मी नारायणाभ्यां नमः ॥ उमामहेश्वराभ्यां नमः ॥ वाणी - हिरण्यगर्भाभ्यां नमः ॥ शचीपुरन्दराभ्यां नमः ॥ मातृपितृ चरणकमलेभ्यो नमः ॥ इष्टदेवताभ्यो नमः ॥ कुलदेवताभ्यो नमः । ग्रामदेवताभ्यो नमः ॥ स्थान देवताभ्यो नमः ॥ वास्तु देवताभ्यो नमः ॥ सर्वेभ्यो नमः ॥ सर्वेभ्यो ब्राह्मणेभ्यो नमः ॥ सर्वेभ्यो तीर्थेभ्यो नमः ॥

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें