मंगलवार, 17 दिसंबर 2013

* सूर्याष्टकम् *

|| सूर्याष्टकम् ||


|| श्रीगणेशाय नम: ||
आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर । दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तु ते ॥१॥
सप्ताश्वरथमारुढ़ प्रचण्डं कश्यपात्मजम् । श्‍वेतपद्मधरं देवं तं सुर्यं प्रणमाम्यहम् ॥२॥
लोहितं रथमारुढं सर्वलोकपितामहम् । महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥३॥
त्रैगुण्यं च महाशुरं ब्रह्माविष्णुमहेश्‍वरम् । महापापहरं देव तं सूर्यं प्रणमाम्यहम् ॥४॥
बृंहितं तेज: पुञ्जं च वायुरामाकाशमेव च । प्रभुं च सर्वलोकानां तं सूर्यं प्रणमाम्यहम् ॥५॥
बंधूकपुष्पसंकाशं हारकुण्डलभूषितम् । एकचक्रधरं देवं तं सुर्यं प्रणमाम्यहम् ॥६॥
तं सुर्यं जगत्कर्तारं महातेज:प्रदीपनम् । महापापहरं देवं तं सुर्यं प्रणमाम्यहम् ॥७॥
तं सुर्यं जगतां नाथं ज्ञानविज्ञानमोक्षदम् । महापापहरं देवं तं सुर्यं प्रणमाम्यहम् ॥८॥
||इति श्रीशिवप्रोक्तं सुर्याष्टकस्तोत्रं सम्पूर्णम् ||

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें