॥ श्री गोपाल स्त्रोतम ॥
नवीन-नीरदश्यामं नीलेन्दीवरलोचनम्
बल्लवीनन्दनं वन्दे कृष्णं गोपालरूपिणम् ॥1॥
स्फुरद्बर्हि-दलोद्बद्ध-नील-कुंचित-मूर्धजम्
कदम्ब-कुसुमोद्बद्ध-वनमाला-विभूषितम् ॥2॥
गंडमण्डलसंसर्गि-चलत्कुंचितकुन्तलम्
स्थूलं मुक्ताफलोदार-हारोद्योतितवक्षसम् ॥3॥
हेमांग-तुलाकोटि-किरीटोज्ज्वल-विग्रहम्
मंदमारुत-संक्षोभ-चलिताम्बर-संचयम् ॥4॥
रुचिरौष्ठ-पुटन्यस्त-वंशीमधुरनिःस्वनैः
लसद्गोपालिकाचेतो मोहयन्त पुनः पुनः ॥5॥
बल्लवीवदनाम्भोज - मधुपानमधुव्रतम्
क्षोभयन्तं मनस्तासां सस्मेरापांगवीक्षणैः ॥6॥
यौवनोद्भिदेहाभिः संसक्ताभिः परस्परम्
विचित्राम्बर-भूषाभिर्गोपनारीभिरावृतम् ॥7॥
प्रभिन्नांजन-कालिन्दी-जलकेलि-कलोत्सुकम्
योधयन्तं क्वचिद् गोपान् व्याहरन्तं गवां गणम् ॥8॥
कालिन्दीजल-संसर्गि-शीतलानिलसेविते
कदम्बपादपच्छाये स्थितं वृन्दावने क्वचित् ॥9॥
रत्नभूधर-संलग्न-रत्नासन-परिग्रहम्
कल्पपादप-मध्यस्थ-हेममण्डपिकागतम् ॥10॥
वसन्तकुसुमामोद-सुरभीकृत-दिंमुखे
गोवर्धनगिरौ रम्ये स्थितं रासरसोत्सुकम् ॥11॥
सव्यहस्त-तलन्यस्त-गिरिवर्यातपत्रकम्
खण्डिताखण्डलोन्मुक्त-मुक्तासार-घनाघनम् ॥12॥
वेणुवाद्य-महोल्लास-कृतहुंकार-निःस्वनैः
सवत्सैरुन्मुखैः शश्वद्गोकुलैरभिवीक्षितम् ॥13॥
कृष्णमेवातुगायद्भिस्तच्चेष्टावशवर्तिभिः
दण्डपाशोद्यतकरैर्गोपालैरुपशोभितम्॥14॥
नारदाद्यैर्मुनिश्रेष्ठैर्वेद-वेदांगपारगैः
प्रीतिसुस्निग्धया वाचा स्तूयमानं परात्परम् ॥15॥
य एवं चिन्तयेद् देवं भक्त्या संस्तौति मानवः
त्रिसन्ध्यं तस्य तुष्टोऽसौ ददाति वरमीप्सितम् ॥16॥
राजवल्लभतामेति भवेत् सर्वजनप्रियः
अचलां श्रियमाप्नोति स वाग्मी जायते ध्रुवम् ॥17॥
॥ इति नारदपंचरात्रे गोपालस्तोत्रं समाप्तम् ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें